गरुड महा पुराणम् - आचार खंड
15 - विष्णुसहस्त्रनाम
श्रीरुद्रने पूछा - हे प्रभो! मनुष्य किस मन्त्रका जप करके इस अथाह संसार - सागरसे पार हो सकता है? आप जप करनेयोग्य उस श्रेष्ठ मन्त्रको मुझे बतायें।
श्री हरिने कहा - हे रुद्र! परम ब्रह्म, परमात्मा, नित्य, परमेश्वर भगवान् विष्णुकी सहस्रनामसे स्तुति करनेपर मनुष्य भव सागरको पार कर सकता है। हे वृषभध्वज! मैं उस पवित्र, श्रेष्ठतम और जप करने योग्य (विष्णु) 'सहस्रनाम' को कहता हूँ। वह समस्त पापोंको विनष्ट करनेवाला स्तोत्र है। आप उसे सावधान होकर सुनें -
ॐ वासुदेवो महाविष्णुर्वामनो वासवो वसु:।
बालचन्द्रनिभो बालो बलभद्रो बलाधिप:॥
बलिबन्धनकृद्वेधा वरेण्यो वेदवित् कवि:।
वेदकर्ता वेदरूपो वेद्यो वेदपरिप्लुत:॥
वेदाङ्गवेत्ता वेदेशो बलाधारो बलार्दन:।
अविकारो वरेशश्च वरुणो वरुणाधिपः॥
वीरहा च बृहद्वीरो वन्दितः परमेश्वर:।
आत्मा च परमात्मा च प्रत्यगात्मा वियत्परः॥
पद्मानाभ: पद्मानिधि: पद्माहस्तो गदाधरः( धराधरः)।
परमः परभूतश्च पुरुषोत्तम ईश्वरः॥
पञ्चजङ्घ: पुण्डरीक: पद्मामालाधर: प्रिय:।
पद्माक्ष: पद्मागर्भश्च पर्जन्यः पञ्चसंस्थित:॥
अपार: परमार्थश्च पराणां च परः प्रभु:।
पण्डितः पण्डितेड्यश्च पवित्र: पापमर्दक:॥
शुद्ध: प्रकाशरूपश्च पवित्र: परिरक्षक:।
पिपासावर्जित: पाद्यः पुरुष: प्रकृतिस्तथा।
प्रधानं पृथिवीपद्मं पद्मनाभ: प्रियप्रद: ( प्रियंवदः)।
सर्वेश: सर्वग: सर्व: सर्ववित् सर्वद: सुर:( परः)॥
सर्वस्य जगतो धाम सर्वदर्शी च सर्वभृत्।
सर्वानुग्रहकृद्देव: सर्वभूतहृदि स्थित:॥
सर्वपूज्यश्च सर्वाद्य: सर्वदेवनमस्कृतः।
सर्वस्य जगतो मूलं सकलो निष्कलोऽनलः॥
सर्वगोप्ता सर्वनिष्ठ: सर्वकारणकारणम्।
सर्वध्येयः सर्वमित्र: सर्वदेवस्वरूपधृक्॥
सर्वाध्यक्ष: सुराध्यक्ष: सुरासुरनमस्कृतः।
दुष्टानां चासुराणां च सर्वदा घातकोऽन्तकः॥
सत्यपालश्च सन्नाभः सिद्धेश: सिद्धवन्दित:।
सिद्धसाध्य: सिद्धसिद्ध: साध्यसिद्धो (सिद्धिसिद्धः) हृदीश्वर:॥
शरणं जगतश्चैव श्रेय: क्षेमस्तथैव च।
शुभकृच्छोभन: सौम्य: सत्य: सत्यपराक्रमः॥
सत्यस्थ: सत्यसशङ्कल्प: सत्यवित् सत्य ( त्प्र )दस्तथा।
धर्मों धर्मी च कर्मी च सर्वकर्मविवर्जित:॥
कर्मकर्ता च कमैंव क्रिया कार्य तथैव च।
श्रीपतिनृपति: श्रीमान् सर्वस्य पतिरूर्जितः॥
सदेवानां पतिश्चैव वृष्णीनां पतिरीडित:।
पतिर्हिरण्यगर्भस्य त्रिपुरान्तपतिस्तथा॥
पशूनां च पति: प्रायो वसूनां पतिरेव च।
पतिराखण्डलस्यैव वरुणस्य पतिस्तथा॥
वनस्पतीनां च पतिरनिलस्य पतिस्तथा।
अनलस्य पतिश्चैव यमस्य पतिरेव च॥
कुबेरस्य पतिश्चैव नक्षत्राणां पतिस्तथा।
ओषधीनां पतिश्चैव वृक्षाणां च पतिस्तथा॥
नागानां पतिरर्कस्य दक्षस्य पतिरेव च।
सुहृदां च पतिश्चैव नृपाणां च पतिस्तथा॥
गन्धर्वाणां पतिश्चैव असूनां पतिरुत्तम:।
पर्वतानां पतिश्चैव निम्नगानां पतिस्तथा॥
सुराणां च पतिः श्रेष्ठ: कपिलस्य पतिस्तथा।
लतानां च पतिश्चैव वीरुधां च पतिस्तथा॥
मुनीनां च पतिश्चैव सूर्यस्य पतिरुत्तम:।
पतिश्चन्द्रमस: श्रेष्ठ: शुक्रस्य पतिरेव च॥
ग्रहाणां च पतिश्चैव राक्षसानां पतिस्तथा।
किन्नराणां पतिश्चैव द्विजानां पतिरुत्तम:॥
सरितां च पतिश्चैव समुद्राणां पतिस्तथा।
सरसां च ( रसानां च) पतिश्चैव भूतानां च पतिस्तथा॥
वेतालानां पतिश्चैव कृष्माण्डानां पतिस्तथा।
पक्षिणां च पति: श्रेष्ठ: पशूनां पतिरेव च॥
महात्मा मङ्गलो मेयो मन्दरो मन्दरेश्वरः।
मेरुम्राता प्रमाणं च माधवो मलवर्जित:॥
मालाधरो महादेवो महादेवेन पूजितः।
महाशान्तो महाभागो मधुसूदन एव च॥
महावीर्या महाप्राणो मार्कण्डेयर्षिवन्दित:।
मायात्मा मायया बद्धो मायया तु विवर्जित:॥
मुनिस्तुतो मुनिमैंत्रो महाना ( रा) सो महाहनु:।
महाबाहुर्महादान्तो ( महादन्तो ) मरणेन विवर्जित:॥
महावक्त्रो महात्मा च महाकायो महोदरः।
महापादो महाग्रीवो महामानी महामना:॥
महागतिर्महाकीर्तिमहारूपो महासुर:।
मधुश्च माधवश्चैव महादेवो महेश्वरः॥
मखेज्यो मखरूपी च माननीयो मखेश्वर: ( महेश्वरः)।
महावातो महाभागो महेशोऽतीतमानुषः॥
मानवश्च(मानवो मनुजश्चैव०।) मनुश्चैव मानवानां प्रियङ्कर:।
मृगश्च मृगपूज्यश्च मृगाणां च पतिस्तथा॥
बुधस्य च पतिश्चैव पतिश्चैव बृहस्पते:।
पतिः शनैश्चरस्यैव राहो: केतोः पतिस्तथा॥
लक्ष्मणो लक्षणश्चैव लम्बौष्ठो ललितस्तथा।
नानालङ्कारसंयुक्तो नानाचन्दनचर्चित:॥
नानारसोज्ज्वलदूक्त्रो नानापुष्पोपशोभितः।
रामो रमापतिश्चैव सभार्य: (त्रातार्यः पर०।) परमेश्वर:॥
रत्नदो रतनहर्त चर रूपी रूपविवर्जितः।
महारूपोग्ररूपश्च सौम्यरूपस्तथैव च॥
नीलमेघनिभ: शुद्ध: कालमेघनिभस्तथा।
धूमवर्ण: पीतवर्णो नानारूपो (नानावर्णों) ह्यवर्णक:॥
विरूपो रूपदश्चैव शुक्लवर्णस्तथैव च।
सर्ववर्णो महायोगी यज्ञो (याज्यो) यज्ञकृदेव च॥
सुवर्णवर्णवांश्चैव सुवर्णाख्यस्तथैव च।
सुवर्णावयवश्चैव सुवर्ण: स्वर्णमेखल:॥
सुवर्णस्य प्रदाता च सुवर्णेशस्तथैव ( सुवर्णाशस्तथैव च ) च।
सुवर्णस्य प्रियश्चैव सुवर्णाद्यस्तथैव च॥
सुपर्णी च महापर्णी सुपर्णस्य च कारणम्।
वैनतेयस्तथादित्य आदिरादिकरः शिव:॥
कारणं महतश्चैव प्रधानस्य च कारणम्।
बुद्धीनां कारणं चैव कारणं मनसस्तथा॥
कारणं चेतसश्चैव अहङ्कारस्थ कारणम्।
भूतानां कारणं तद्बत् कारणं च विभावसो:॥
आकाशकारणं तद्वत् पृथिव्या: कारणं परम्।
अण्डस्य कारणं चैव प्रकृतेः कारणं तथा॥
देहस्य कारणं चैव चक्षुषश्चैव कारणम्।
श्रोत्रस्य कारणं तद्वत् कारणं च त्वचस्तथा॥
जिह्वाया: कारणं चैव प्राणस्यैव च कारणम्।
हस्तयोः कारणं तद्वत् पादयोः कारणं तथा॥
वाचश्च कारणं तद्वत् पायोश्चैव तु कारणम्।
इन्द्रस्य कारणं चैव कुबेरस्य च कारणम्॥
यमस्य कारणं चैव ईशानस्य च कारणम्।
यक्षाणां कारणं चैव रक्षसां कारणं परम्॥
नृपाणां कारणं श्रेष्ठ धर्मस्यैव तु कारणम्।
जन्तूनां कारणं चैव वसूनां कारणं परम्॥
मनूनां कारणं चैव पक्षिणां कारणं परम्।
मुनीनां कारणं श्रेष्ठ योगिनां कारणं परम्॥
सिद्धानां कारणं चैव यक्षाणां कारणं परम्।
कारणं किन्नराणां च गन्धर्वाणां च कारणम्॥
नदानां कारणं चैव नदीनां कारणम् परम्।
कारणं चर समुद्राणां वृक्षाणां कारणं तथा॥
कारणं वीरुधां चैव लोकानां कारणं तथा।
पातालकारणं चैव देवानां कारणं तथा॥
सर्पाणां कारणं चैव श्रेयसां कारणं तथा।
पशूनां कारणं चैव सर्वेषां कारणं तथा॥
देहात्मा चेन्द्रियात्मा च आत्मा बुद्धिस्तथैव च।
मनसश्च तथैवात्मा चात्माहङ्गारचेतसः(बाह्माहंकार०।)॥
जाग्रतः स्वपतश्चात्मा महदात्मा परस्तथा।
प्रधानस्य परात्मा च आकाशात्मा ह्यपां तथा॥
पृथिव्या: परमात्मा च रसस्यात्मा तथैव च।
गन्धस्य परमात्मा च रूपस्यात्मा परस्तथा॥
शब्दात्मा चैव वागात्मा स्पर्शात्मा पुरुषस्तथा।
क्षोत्रात्मा च त्वगात्मा च जिह्वात्मा परमस्तथा॥
घ्राणात्मा चैव हस्तात्मा पादात्मा परमस्तथा।
उपस्थस्य तथैवात्मा पाय्वात्मा परमस्तथा॥
इन्द्रात्मा चैव ब्रह्मात्मा रुद्रा ( शान्ता ) त्मा च मनोस्तथा।
दक्षप्रजापतेरात्मा सत्या ( स्त्रष्टा )त्मा परमस्तथा॥
ईशात्मा परमात्मा चर रौद्रात्मा मोक्षविद्यति:।
यत्नवांश्च तथा यत्नश्चर्मी खड्गी मुरान्तक: ( असुरान्तकः)॥
ह्रीप्रवर्तशीलश्च यतीनां च हिते रत:।
यतिरूपी च योगी च योगिध्येयो हरि: शितिः॥
संविन्मेधा च कालश्च ऊष्मा वर्षा म (न ) तिस्तथा।
संवत्सरो मोक्षकरो मोहप्रध्वंसकस्तथा॥
मोहकर्ता च दुष्टानां माण्डव्यो वडवामुख:।
संवर्तः कालकर्ता च गौतमो भृगुरिङ्गरा॥
अत्रिर्वसिष्ठ: पुलहः पुलस्त्यः कुत्स एव च।
याज्ञवल्क्यो देवलश्च व्यासश्चैव पराशर:॥
शर्मदश्चैव गाङ्गेयो हृषीकेशो बृहच्छवा:।
केशवः क्लेशहन्ता च सुकर्ण: कर्णवर्जित:॥
नारायणो महाभाग: प्राणस्य पतिरेव च।
अपानस्य पतिश्चैव व्यानस्य पतिरेव चा॥
उदानस्य पति: श्रेष्ठ: समानस्य पतिस्तथा।
शब्दस्य च पति: श्रेष्ठ: स्पर्शस्य पतिरेव च॥
रूपाणां च पतिश्चाद्यः खड्गपाणिर्हलायुध:।
चक्रपाणि: कुण्डली च श्रीवत्साङ्कस्तथैव च॥
प्रकृति: कौस्तुभग्रीव: पीताम्बरधरस्तथा।
सुमुखो दुर्मुखश्चैव मुखेन तु विवर्जित:॥
अनन्तोऽनन्तरूपश्च सुनखः सुरमन्दर:।
सुकपोलो विभूर्जिष्णु्र्भ्राजिष्णुश्चेषुधीस्तथा॥
हिरण्यकशिपोर्हन्ता हिरण्याक्षविमर्दक:।
निहन्ता पूतनायाश्च भास्करान्तविनाशन:॥
केशिनो दलनश्चैव मुष्टिकस्य विमर्दकः।
कंसदानवभेत्ता च चाणूरस्य ( धेनुकस्य ) प्रमर्दकः॥
अरिष्टस्य निहन्ता च अक्रूरप्रिय एव च।
अक्रूरः. क्रूररूपश्च अक्रूरप्रियवन्दित:॥
भगहा भगवान् भानुस्तथा भागवत: स्वयम्।
उद्धवश्चोद्धवस्येशो ह्युद्धवेन विचिन्तित:॥
चक्रधृक् चञ्चलश्चैव चलाचलविवर्जित:।
अहङ्कारोपमश्चित्तं गगनं पृथिवी जलमू॥
वायुश्चक्षुस्तथा श्रोत्रं जिह्वा च घ्राणमेव च।
वाक्पाणिपादजवनः(पाणिपादाविति पा0।) पायूपस्थस्तथैव च॥
शङ्करश्चैव सर्वश्च क्षान्तिद: क्षान्तिकृन्नर:।
भत्क्तप्रियस्तथा भर्त्ता भक्तिमान् भक्तिवर्धन:॥
भक्तस्तुतो भक्तपरः कीर्तिदः कीर्तिवर्धन:।
कीर्तिर्दीप्ति: क्षमाकान्तिर्भक्तश्चैव दया परा॥
दानं दाता च कर्ता च देवदेवप्रिय: शुचिः।
शुचिमान् सुखदो मोक्ष: कामश्चार्थ: सहस्त्रपात्॥
सहस्रशीर्षा वैद्यश्च मोक्षद्वारं तथैव च।
प्रजाद्वारं सहस्राक्षः सहस्रकर एव च॥
शुक्रश्च (सुभ्रु: ) सुकिरीटी चर सुग्रीव: कौस्तुभस्तथा।
प्रद्युम्नश्चानिरुद्धश्च हयग्रीवश्च सूकरः॥
मत्स्य: परशुरामश्च प्रह्लादो बलिरेव च।
शरण्यश्चैव नित्यश्च बुद्धो मुक्त: शरीरभृत्॥
खरदूषणहन्ता च रावणस्थ प्रमर्दनः।
सीतापतिश्च वर्धिष्णुर्भतश्च तथैव च॥
कुम्भेन्द्रजिन्निहन्ता च कुम्भकर्णप्रमर्दन:।
नरान्तकान्तकश्चैव देवान्तकविनाशन:॥
दुष्टासुरनिहन्ता च शम्बरारिस्तथैव च।
नरकस्य निहन्ता च त्रिशीर्षस्य विनाशनः॥
यमलार्जुनभेत्ता च तपोहितकरस्तथा।
वादित्रं चैव वाद्यं च बुद्धश्चैव वरप्रदः॥
सारः सारप्रियः सौर: कालहन्तृनिकृन्तनः।
अगस्त्यो देवलश्चैव नारदो नारदप्रिय:॥
प्राणोऽपानस्तथा व्यानो रज: सत्त्वं तमः शरत्।
उदानश्च समानश्च भेषजं च भिषक् तथा॥
कूटस्थः स्वच्छरूपश्च सर्वदेहविवर्जित:।
चक्षुरिन्द्रियहीनश्च वागिन्द्रियविवर्जित:॥
हस्तेन्द्रियविहीनश्च पादाभ्यां च विवर्जित:।
पायूपस्थविहीनश्च महातापविवर्जित:॥
प्रबोधेन विहीनश्च बुद्ध्या चैव विवर्जित:।
चेतसा विगतश्चैव प्राणेन च विवर्जितः॥
अपानेन विहीनश्च व्यानेन च विवर्जितः।
उदानेन विहीनश्च समानेनविवर्जित:॥
आकाशेन विहीनश्च वायुना परिवर्जितः।
अग्निना च विहीनश्च उदकेन विवर्जितः॥
पृथिव्या च विहीनश्च शब्देन च विवर्जित:।
स्पर्शेन च विहीनश्च सर्वरूपविवर्जित:॥
रागेण विगतश्चैव अघेन परिवर्जितः:।
शोकेन रहितश्चैव वचसा परिवर्जित:॥
रजोविवर्जितश्चैव विकारैः षड्भिरेव च।
कामेन वर्जितश्चैव क्रोधेन परिवर्जित:॥
लोभेन विगतश्चैव दम्भेन च विवर्जितः।
सूक्ष्मश्चैव सुसूक्ष्मश्च स्थूलात्स्थूलतरस्तथा॥
विशारदो बलाध्यक्ष: सर्वस्य क्षोभकस्तथा।
प्रकृते: क्षोभकश्चैव महतः क्षोभकस्तथा॥
भूतानां क्षोभकश्चैव बुद्धेश्च क्षोभकस्तथा।
इन्द्रियाणां क्षोभकश्च विषयक्षोभकस्तथा॥
ब्रह्मण: क्षोभकश्चैव रुद्रस्य क्षोभकस्तथा।
अगम्यश्चक्षुरादेश्च श्रोत्रागम्यस्तथैव चा॥
त्वचा न गम्यः कूर्मश्च जिह्लाऽग्राह्मस्तथैव च।
घ्राणेन्द्रियागम्य एव वाचाऽग्राह्मस्तथैव च॥
अगम्यश्चैव पाणिभ्यां पदागम्यस्तथैव च।
अग्राह्मो मनसश्चैव बुद्ध्याऽग्राह्मो हरिस्तथा॥
अहं बुद्धया तथा ग्राह्मश्चेतसा ग्राह्य एव च।
शङ्कपाणिश्चाव्ययश्च गदापाणिस्तथैव च॥
शार्ङ्गपाणिश्च कृष्णश्च ज्ञानमूर्ति: परन्तपः।
तपस्वी ज्ञानगम्यो हि ज्ञानी ज्ञानविदेव च॥
ज्ञेयश्च ज्ञेयहीनश्च ज्ञप्तिश्चैतन्यरूपकः।
भावो भाव्यो भवकरो भावनो भवनाशनः॥
गोविन्दो गोपतिगोप: सर्वगोपीसुखप्रद:।
गोपालो गोगतिश्चैव गोमतिर्गोधरस्तथा॥
उपेन्द्रश्च नृसिंहश्च शौरिश्चैव जनार्दनः।
आरणेयो बृहद् भानुर्बृहद् दीप्तिस्तथैव च॥
दामोदरस्त्रिकालश्च कालज्ञ: कालवर्जितः।
त्रिसन्ध्यो द्वापरं त्रेता प्रजाद्वारं त्रिविक्रमः॥
विक्रमो दण्ड ( र ) हस्तश्च ह्येकदण्डी त्रिदण्डधृक्।
सामभेदस्तथोपाय: सामरूपी च सामगः॥
सामवेदो ह्यथर्वश्च सुकृतः सुतरूपणः।
अथर्ववेदविच्चैव ह्यथर्वाचार्य एव चा॥
ऋग्रूपी चैव ऋग्वेद ऋग्वेदेषु प्रतिष्टितः।
यजुर्वेत्ता यजुर्वेदो यजुर्वेदविदेकपात्॥
बहुपाच्च सुपाच्चैव तथैव च सहस्रपात्।
चतुष्पाच्च द्विपाच्चैव स्मृतिन्यायो यमो बली॥
संन्यासी चैव संन्यासश्चतुराश्रम एक च।
ब्रह्मचारी गृहस्थश्च वानप्रस्थश्च भिक्षुकः॥
ब्राह्मण: क्षत्रियो वैश्य: शूद्रो वर्णस्तथैव च।
शीलदः शीलसम्पन्नो दुःशीलपरिवर्जित:॥
मोक्षोऽध्यात्मसमाविष्ट: स्तुति: स्तोता च पूजकः।
पूज्यो वाक्करणं चैव वाच्यं चैव तु वाचकः ॥
वेत्ता व्याकरणं चैव वाक्यं चैव च वाक्यवित्।
वाक्यगम्यस्तीर्थवासी तीर्थस्तीर्थी च तीर्थवित्॥
तीर्थादिभूतः साङ्कयश्च निरुत्तं त्वधिदैवतम्।
प्रणव: प्रणवेशश्च प्रणवेन प्रवन्दित: ॥
प्रणवेन च लक्ष्यो वै गायत्री च गदाधर:।
शालग्रामनिवासी च शालग्रामस्तथैव च॥
जलशायी योगशायी शेषशायी कुशेशयः।
महीभर्ता च कार्य च कारणं पृथिवीधर:॥
प्रजापति: शाश्रतश्च काम्य: कामयिता विराट्।
सम्राट् पूषा तथा स्वर्गों रथस्थ: सारथिर्बलम्॥
धनी धनप्रदो धन्यो यादवानां हिते रतः।
अर्जुनस्य प्रियश्चैव ह्यर्जुनो भीम एव चा॥
पराक्रमो दुर्विषह: सर्वशास्त्रविशारद:।
सारस्वतो महाभीष्मः पारिजातहरस्तथा॥
अमृतस्य प्रदाता च क्षीरोदः क्षीरमेव च।
इन्द्रात्मजस्तस्थ गोप्ता गोवर्धनधरस्तथा ॥
कंसस्य नाशनस्तद्वद्धस्तिपो हस्तिनाशनः।
शिपिविष्ट: प्रसन्नश्च सर्वलोकार्तिनाशन: ॥
मुद्रो मुद्रा करश्चैव सर्वमुद्राविवर्जित:।
देही देहस्थितश्चैव देहस्य च नियामकः॥
श्रोता श्रोतृनियन्ता च श्रोतव्यः श्रवणं तथा।
त्वक्स्थितश्च स्पर्शयित्वा स्पृश्यं च स्पर्शनं तथा॥
रूपद्रष्टा च चक्षुःस्थो नियन्ता चक्षुषस्तथा।
दृश्यं चैव तु जिह्मास्थो रसज्ञश्च नियामक:॥
घ्राणस्थो घ्राणकृद् घ्राता घ्राणेन्द्रियनियामक:।
वाक्स्थो वक्ता च वक्तव्यो वचनं वाङ्गनियामक:॥
प्राणिस्थ: शिल्पकृच्छिल्पो हस्तयोश्च नियामक:।
पदव्यश्चैव गन्ता च गन्तव्यं गमनं तथा॥
नियन्ता पादयोश्चैव पाद्मभाक् च विसर्गकृत्।
विसर्गस्य नियन्ता च ह्यपस्थस्थ: सुखं तथा॥
उपस्थस्थ नियन्ता च तदानन्दकरश्च ह।
शत्रुघ्न: कार्तवीर्यश्च दत्तात्रेयस्तथैव च॥
अलर्कस्य हितश्चैव कार्तवीर्यनिकृन्तन:।
कालनेमिर्महानेमिमेघो मेघपतिस्तथा॥
अन्नप्रदोऽन्नरूपी च ह्यन्नादोऽन्नप्रवर्तक:।
धूमकृद्धमरूपश्च देवकीपूत्र उत्तम: ॥
देवक्यानन्दनो नन्दो रोहिण्या: प्रिय एव च।
वसुदेवप्रियश्चैव वसुदेवसुतस्तथा॥
दुन्दुभिर्हासरूपश्च पुष्पहासस्तथैव च।
अट्टहासप्रियश्चैव सर्वाध्यक्ष: क्षरोऽक्षरः ॥
अच्युतश्चैव सत्येश: सत्यायाश्च प्रियो वरः।
रुक्मिण्याश्च पतिश्चैव रुक्मिण्या वल्लभस्तथा॥
गोपीनां बल्लभश्चैव पुण्यश्लोकश्च विश्रुतः।
वृषाकपिर्यमो गुह्यो मकुलश्च (मड्भलश्च बुध इति पा०।) बुधस्तथा॥
राहु: केतुर्ग्रहो ग्राहो गजेन्द्रमुखमेलक:। (गजेन्द्रमुपखेल०।)
ग्राहस्थ विनिहन्ता च ग्रामणी रक्षकस्तथा॥
किन्नरश्चैव सिद्धश्च छन्दः स्वच्छन्द एव च।
विश्वरूपो विशालाक्षो दैत्यसूदन एव च॥
अनन्तरूपो भूतस्थो देवदानवसंस्थित:।
सुषुप्तिस्थः सुषुप्तिश्च स्थानं स्थानान्त एव च॥
जगत्स्थश्चैव जागर्ता स्थानं जागरितं तथा।
स्वजस्थ: स्वजवित् स्वजस्थानं स्वजस्तथैव च॥
जाग्रत्स्वप्नसुषुप्तैश्च विहीनो वै चतुर्थकः।
विज्ञानं वेद्यरूपं च जीवो जीवयिता तथा॥
भुवनाधिपतिश्चैव भुवनानां नियामकः।
पातालवासी पातालं सर्वज्वरविनाशन:॥
परमानन्दरूपी च धर्माणां चर प्रवर्तकः।
सुलभो दुर्लभश्चैव प्राणायामपरस्तथा॥
प्रत्याहरो धारकश्च प्रत्याहारकरस्तथा।
प्रभा कान्तिस्तथा ह्यर्चि: शुद्धः स्फटिकसंनिभ:॥
अग्राहश्चैव गौरश्च सर्व: शुचिरभिष्टुत:।
वषट्कारो वषड् वौषट् स्वधा स्वाहा रतिस्तथा ॥
पक्ता नन्दयिता भोक्ता बोद्धा भावयिता तथा।
ज्ञनात्मा चैव देहात्मा भू (उ) मा सर्वेश्वरेश्वर: ॥
नदी नन्दी च नन्दीशो भारतस्तरुनाशन:।
चक्रप: श्रीपतिश्चैव नृपाणां चक्रवर्तिनाम्॥
ईशश्च सर्वदेवानां द्वारकासंस्थितस्तथा।
पुष्कर: पुष्कराध्यक्ष: पुष्करद्दीप एव चा॥
भरतो जनको जन्यः सर्वाकारविवर्जित:।
निराकारो निर्निमित्तो निरातंको निराभश्रय:॥
इति नामसहस्त्रं ते वृषभध्वज कीर्तितम्।
देवस्य विष्णोरीशस्य सर्वपापविनाशनम्॥
पठन् द्विजश्च विष्णुत्वं क्षत्रियो जयमाप्नुयात्।
वैश्यो धनं सुखं शूद्रो विष्णुभक्तिसमन्वित:॥
हे वृषभध्वज ! मैंने सर्वपापविनाशक, जगदीश्वर, देवाधिदेव विष्णुके इस सहस्रनामका जो कीर्तन किया है, इसका पाठ करनेसे ब्राह्मण विष्णुत्व अर्थात् विष्णुस्वरूप, क्षत्रिय विजय, वैश्य धन तथा सुख और शूद्र विष्णुकी भक्ति प्राप्त करता है।